Home » Stotras » Sri Siddhi Vinayaka Stotram

Sri Siddhi Vinayaka Stotram

श्री सिद्धिविनायकस्तोत्रम् (Sri Siddhi Vinayaka Stotram)

जयोऽस्तु ते गणपते देहि मे विपुलां मतिम् ।
स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् ॥ १॥

प्रभुं मंगलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः ।
यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा ॥ २॥

विनायकं च प्राहुस्त्वां गजास्यं शुभदायकम् ।
त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक ॥ ३॥

त्वत्पदाब्जाङ्कितश्चाहं नमामि चरणौ तव ।
देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं शृणु प्रभो ॥ ४॥

कुरु त्वं मयि वात्सल्यं रक्ष मां सकलानिव ।
विघ्नेभ्यो रक्ष मां नित्यं कुरु मे चाखिलाः क्रियाः ॥ ५॥

गौरिसुतस्त्वं गणेशः शॄणु विज्ञापनं मम ।
त्वत्पादयोरनन्यार्थी याचे सर्वार्थ रक्षणम् ॥ ६॥

त्वमेव माता च पिता देवस्त्वं च ममाव्ययः ।
अनाथनाथस्त्वं देहि विभो मे वांछितं फलम् ॥ ७॥

लम्बोदरस्वम् गजास्यो विभुः सिद्धिविनायकः ।
हेरम्बः शिवपुत्रस्त्वं विघ्नेशोऽनाथबांधवः ॥ ८॥

नागाननो भक्तपालो वरदस्त्वं दयां कुरु ।
सिन्दूरवर्णः परशुहस्तस्त्वं विघ्ननाशकः ॥ ९॥

विश्वास्यं मङ्गलाधीशं विघ्नेशं परशूधरम् ।
दुरितारिं दीनबन्धूं सर्वेशं त्वां जना जगुः ॥ १०॥

नमामि विघ्नहर्तारं वन्दे श्रीप्रमथाधिपम् ।
नमामि एकदन्तं च दीनबन्धू नमाम्यहम् ॥ ११॥

नमनं शम्भुतनयं नमनं करुणालयम् ।
नमस्तेऽस्तु गणेशाय स्वामिने च नमोऽस्तु ते ॥ १२॥

नमोऽस्तु देवराजाय वन्दे गौरीसुतं पुनः ।
नमामि चरणौ भक्त्या भालचन्द्रगणेशयोः ॥ १३॥

नैवास्त्याशा च मच्चित्ते त्वद्भक्तेस्तवनस्यच ।
भवेत्येव तु मच्चित्ते ह्याशा च तव दर्शने ॥ १४॥

अज्ञानश्चैव मूढोऽहं ध्यायामि चरणौ तव ।
दर्शनं देहि मे शीघ्रं जगदीश कृपां कुरु ॥ १५॥

बालकश्चाहमल्पज्ञः सर्वेषामसि चेश्वरः ।
पालकः सर्वभक्तानां भवसि त्वं गजानन ॥ १६॥

दरिद्रोऽहं भाग्यहीनः मच्चित्तं तेऽस्तु पादयोः ।
शरण्यं मामनन्यं ते कृपालो देहि दर्शनम् ॥ १७॥

इदं गणपतेस्तोत्रं यः पठेत्सुसमाहितः ।
गणेशकृपया ज्ञानसिध्धिं स लभते धनम् ॥ १८॥

पठेद्यः सिद्धिदं स्तोत्रं देवं सम्पूज्य भक्तिमान् ।
कदापि बाध्यते भूतप्रेतादीनां न पीडया ॥ १९॥

पठित्वा स्तौति यः स्तोत्रमिदं सिद्धिविनायकम् ।
षण्मासैः सिद्धिमाप्नोति न भवेदनृतं वचः
गणेशचरणौ नत्वा ब्रूते भक्तो दिवाकरः ॥ २०॥

इति श्री सिद्धिविनायक स्तोत्रम् सम्पूर्णम

Sri Aditya Stavam

శ్రీ మార్కండేయ పురాణం అంతర్గత శ్రీ ఆదిత్య స్తవం (Sri Aditya Stavam) బ్రహ్మోవాచ నమస్యై యన్మయం సర్వమేత త్సర్వ మయశ్చ యః ౹ విశ్వమూర్తి: పరం జ్యోతి:  యత్త ద్యా యంతి యోగినః || 1 || యఋజ్ఞమ్యోయోయజుషం నిధానం...

Gaurisastakam

గౌరీశాష్టకం (Gaurisastakam) జలభవ దుస్తరజలధిసుతరణం ధ్యేయం చిత్తే శివహరచరణమ్‌, అన్యోపాయం నహి నహి సత్యం, గేయం శంకర!శంకర!నిత్యమ్‌ || 1 || దారాపత్యం క్షేత్రం విత్తం దేహం గేహం సర్వమనిత్యమ్‌, ఇతి పరిభావయ సర్వమసారం, గర్భవికృత్యా స్వప్నవిచారమ్‌ || 2 ||...

Sri Bhagavathi Stotram

व्यासकृतं श्रीभगवतीस्तोत्रम् (Sri Bhagavathi Stotram) व्यासकृतं श्रीभगवतीस्तोत्र जय भगवति देवि नमो वरदे जय पापविनाशिनि बहुफलदे। जय शुम्भनिशुम्भकपालधरे प्रणमामि तु देवि नरार्तिहरे॥१॥ जय चन्द्रदिवाकरनेत्रधरे जय पावकभूषितवक्त्रवरे। जय भैरवदेहनिलीनपरे जय अन्धकदैत्यविशोषकरे॥३॥ जय...

Vishnu Kruta Shakti Stavam

విష్ణు కృత శక్తి స్తవం (Vishnu Kruta Shakti Stavam) నమో దేవి మహామాయే సృష్టి సంహార కారిణి| అనాదినిధనే చండి భుక్తి ముక్తి ప్రదే శివే || నతే రూపం విజానామి సగుణం నిర్గుణం తథా| చరితాని కుతో దేవి సంఖ్యాతీతాని...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!