श्री बगलामुखी पञ्जरन्यासस्तोत्रम् (Sri Bagalamukhi Pancharatna Stotram)
बगला पूर्वतो रक्षेद् आग्नेय्यां च गदाधरी ।
पीताम्बरा दक्षिणे च स्तम्भिनी चैव नैरृते ॥ १॥
जिह्वाकीलिन्यतो रक्षेत् पश्चिमे सर्वदा हि माम् ।
वायव्ये च मदोन्मत्ता कौबेर्यां च त्रिशूलिनी ॥ २॥
ब्रह्मास्त्रदेवता पातु ऐशान्यां सततं मम ।
संरक्षेन् मां तु सततं पाताले स्तव्यमातृका ॥ ३॥
ऊर्ध्वं रक्षेन्महादेवी जिह्वास्तम्भनकारिणी ।
एवं दशदिशो रक्षेद् बगला सर्वसिद्धिदा ॥ ४॥
एवं न्यासविधिं कृत्वा यत् किञ्चिज्जपमाचरेत् ।
तस्याः संस्मरणादेव शत्रूणां स्तम्भनं भवेत् ॥ ५॥
॥ इति श्रीबगलामुखी पञ्जरन्यासस्तोत्रं सम्पूर्णम् ॥